Sukta 8.14
यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् । चक्राण ओपशं दिवि ॥
य॒ज्ञ इन्द्र॑मवर्धय॒द्यद्भूमिं॒ व्यव॑र्तयत् । च॒क्रा॒ण ओ॑प॒शं दि॒वि ॥
yajñá índram avardhayad yád bhū́miṃ vy àvartayat | cakrāṇá ópaśaṃ diví ||
The sacrifice increased Indra when he widened and set in right motion the foundation of earth, fashioning in heaven the sure support for the upward working of the soul.
य॒ज्ञः । इन्द्र॑म् । अ॒व॒र्ध॒य॒त् । यत् । भूमि॑म् । वि । अव॑र्तयत् । च॒क्रा॒णः । ओ॒प॒शम् । दि॒वि ॥यज्ञः । इन्द्रम् । अवर्धयत् । यत् । भूमिम् । वि । अवर्तयत् । चक्राणः । ओपशम् । दिवि ॥yajñaḥ | indram | avardhayat | yat | bhūmim | vi | avartayat | cakrāṇaḥ | opaśam | divi