Sukta 8.14
शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे । यदहं गोपतिः स्याम् ॥
शिक्षे॑यमस्मै॒ दित्से॑यं॒ शची॑पते मनी॒षिणे॑ । यद॒हं गोप॑ति॒: स्याम् ॥
śíkṣeyam asmai dítsēyaṃ śácī-pate manīṣíṇe | yád aháṃ gó-patiḥ syām ||
May I learn for him and may I give to him—O lord of the Shacī, to the wise one—so that I may become a lord of the Rays (cows), a master of illumined possessions.
शिक्षे॑यम् । अ॒स्मै॒ । दित्से॑यम् । शची॑ऽपते । म॒नी॒षिणे॑ । यत् । अ॒हम् । गोऽप॑तिः । स्या॒म् ॥शिक्षेयम् । अस्मै । दित्सेयम् । शचीपते । मनीषिणे । यत् । अहम् । गोपतिः । स्याम् ॥śikṣeyam | asmai | ditseyam | śacī-pate | manīṣiṇe | yat | aham | go--patiḥ | syām