Sukta 8.13
क्रीळन्त्यस्य सूनृता आपो न प्रवता यतीः । अया धिया य उच्यते पतिर्दिवः ॥
क्रीळ॑न्त्यस्य सू॒नृता॒ आपो॒ न प्र॒वता॑ य॒तीः । अ॒या धि॒या य उ॒च्यते॒ पति॑र्दि॒वः ॥
krīḷánty asya sūnṛ́tā ā́po na právatā yatī́ḥ | ayā́ dhiyā́ yá ucyáte pátir diváḥ ||
His true and luminous words sport and flow like waters rushing down the slope. By this awakened thought he is proclaimed the Lord of the heaven.
क्रीळ॑न्ति । अ॒स्य॒ । सू॒नृताः॑ । आपः॑ । न । प्र॒ऽवता॑ । य॒तीः । अ॒या । धि॒या । यः । उ॒च्यते॑ । पतिः॑ । दि॒वः ॥क्रीळन्ति । अस्य । सूनृताः । आपः । न । प्रवता । यतीः । अया । धिया । यः । उच्यते । पतिः । दिवः ॥krīḷanti | asya | sūnṛtāḥ | āpaḥ | na | pra-vatā | yatīḥ | ayā | dhiyā | yaḥ | ucyate | patiḥ | divaḥ