Sukta 8.13
वृषा ग्रावा वृषा मदो वृषा सोमो अयं सुतः । वृषा यज्ञो यमिन्वसि वृषा हवः ॥
वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो॑ अ॒यं सु॒तः । वृषा॑ य॒ज्ञो यमिन्व॑सि॒ वृषा॒ हव॑: ॥
vṛ́ṣā grā́vā vṛ́ṣā mádo vṛ́ṣā sómo ayáṃ sutáḥ | vṛ́ṣā yajñó yám invasi vṛ́ṣā hávaḥ ||
Bull-like is the pressing-stone, bull-like the ecstasy; bull-like is this Soma, pressed out. Bull-like is the sacrifice you set in motion, and bull-like is the call—everything charged with fruitful force.
वृषा॑ । ग्रावा॑ । वृषा॑ । मदः॑ । वृषा॑ । सोमः॑ । अ॒यम् । सु॒तः । वृषा॑ । य॒ज्ञः । यम् । इन्व॑सि । वृषा॑ । हवः॑ ॥वृषा । ग्रावा । वृषा । मदः । वृषा । सोमः । अयम् । सुतः । वृषा । यज्ञः । यम् । इन्वसि । वृषा । हवः ॥vṛṣā | grāvā | vṛṣā | madaḥ | vṛṣā | somaḥ | ayam | sutaḥ | vṛṣā | yajñaḥ | yam | invasi | vṛṣā | havaḥ