Sukta 8.13
वृषा त्वा वृषणं हुवे वज्रिञ्चित्राभिरूतिभिः । वावन्थ हि प्रतिष्टुतिं वृषा हवः ॥
वृषा॑ त्वा॒ वृष॑णं हुवे॒ वज्रि॑ञ्चि॒त्राभि॑रू॒तिभि॑: । वा॒वन्थ॒ हि प्रति॑ष्टुतिं॒ वृषा॒ हव॑: ॥
vṛ́ṣā tvā vṛ́ṣaṇaṃ huve vájriñ citrā́bhir ūtí-bhiḥ | vāvántha hí práti-stutim vṛ́ṣā hávaḥ ||
Potent, I call you the Potent One, O wielder of the thunderbolt, with your many-colored helps; for you indeed increase the answering praise—potent is the call.
वृषा॑ । त्वा॒ । वृष॑णम् । हुवे॑ । वज्रि॑न् । चि॒त्राभिः॑ । ऊ॒तिऽभिः॑ । व॒वन्थ॑ । हि । प्रति॑ऽस्तुतिम् । वृषा॑ । हवः॑ ॥वृषा । त्वा । वृषणम् । हुवे । वज्रिन् । चित्राभिः । ऊतिभिः । ववन्थ । हि । प्रतिस्तुतिम् । वृषा । हवः ॥vṛṣā | tvā | vṛṣaṇam | huve | vajrin | citrābhiḥ | ūti-bhiḥ | vavantha | hi | prati-stutim | vṛṣā | havaḥ