Sukta 8.13
वृषायमिन्द्र ते रथ उतो ते वृषणा हरी । वृषा त्वं शतक्रतो वृषा हवः ॥
वृषा॒यमि॑न्द्र ते॒ रथ॑ उ॒तो ते॒ वृष॑णा॒ हरी॑ । वृषा॒ त्वं श॑तक्रतो॒ वृषा॒ हव॑: ॥
vṛ́ṣāyám indra te rátha utó te vṛ́ṣaṇā hárī | vṛ́ṣā tváṃ śatakrato vṛ́ṣā hávaḥ ||
Bull-like is your chariot, O Indra, and bull-like your two tawny energies; bull-like are you, O hundred-powered, and bull-like is the call that summons you—full of fruitful force.
वृषा॑ । अ॒यम् । इ॒न्द्र॒ । ते॒ । रथः॑ । उ॒तो इति॑ । ते॒ । वृष॑णा । हरी॒ इति॑ । वृषा॑ । त्वम् । श॒त॒ऽक्र॒तो॒ इति॑ शतऽक्रतो । वृषा॑ । हवः॑ ॥वृषा । अयम् । इन्द्र । ते । रथः । उतो इति । ते । वृषणा । हरी इति । वृषा । त्वम् । शतक्रतो इति शतक्रतो । वृषा । हवः ॥vṛṣā | ayam | indra | te | rathaḥ | uto iti | te | vṛṣaṇā | harī iti | vṛṣā | tvam | śata-krato itiśata-krato | vṛṣā | havaḥ