Sukta 8.13
इयं त इन्द्र गिर्वणो रातिः क्षरति सुन्वतः । मन्दानो अस्य बर्हिषो वि राजसि ॥
इ॒यं त॑ इन्द्र गिर्वणो रा॒तिः क्ष॑रति सुन्व॒तः । म॒न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा॑जसि ॥
iyáṃ ta indra girvaṇo rātíḥ kṣarati sunvatáḥ | mandāná asyá barhíṣo ví rājasi ||
This thy giving, O Indra praised by song, flows out for the presser; delighted, upon his sacred seat of offering, thou shinest forth in full manifestation.
इ॒यम् । ते॒ । इ॒न्द्र॒ । गि॒र्व॒णः॒ । रा॒तिः । क्ष॒र॒ति॒ । सु॒न्व॒तः । म॒न्दा॒नः । अ॒स्य । ब॒र्हिषः॑ । वि । रा॒ज॒सि॒ ॥इयम् । ते । इन्द्र । गिर्वणः । रातिः । क्षरति । सुन्वतः । मन्दानः । अस्य । बर्हिषः । वि । राजसि ॥iyam | te | indra | girvaṇaḥ | rātiḥ | kṣarati | sunvataḥ | mandānaḥ | asya | barhiṣaḥ | vi | rājasi