Sukta 8.13
वर्धस्वा सु पुरुष्टुत ऋषिष्टुताभिरूतिभिः । धुक्षस्व पिप्युषीमिषमवा च नः ॥
वर्ध॑स्वा॒ सु पु॑रुष्टुत॒ ऋषि॑ष्टुताभिरू॒तिभि॑: । धु॒क्षस्व॑ पि॒प्युषी॒मिष॒मवा॑ च नः ॥
várdhasvā sú puruṣṭuta ṛ́ṣiṣṭutābhir ū́tibhiḥ | dhúkṣasva pipyúṣīm íṣam ávā ca naḥ ||
Grow thou, O much-praised, by the succours hymned by the seers; and milk out for us the swelling nourishment, and guard us too.
वर्ध॑स्व । सु । पु॒रु॒ऽस्तु॒त॒ । ऋषि॑ऽस्तुताभिः । ऊ॒तिऽभिः॑ । धु॒क्षस्व॑ । पि॒प्युषी॑म् । इष॑म् । अव॑ । च॒ । नः॒ ॥वर्धस्व । सु । पुरुस्तुत । ऋषिस्तुताभिः । ऊतिभिः । धुक्षस्व । पिप्युषीम् । इषम् । अव । च । नः ॥vardhasva | su | puru-stuta | ṛṣi-stutābhiḥ | ūti-bhiḥ | dhukṣasva | pipyuṣīm | iṣam | ava | ca | naḥ