Sukta 8.13
तमीमहे पुरुष्टुतं यह्वं प्रत्नाभिरूतिभिः । नि बर्हिषि प्रिये सददध द्विता ॥
तमी॑महे पुरुष्टु॒तं य॒ह्वं प्र॒त्नाभि॑रू॒तिभि॑: । नि ब॒र्हिषि॑ प्रि॒ये स॑द॒दध॑ द्वि॒ता ॥
tám īmahe puruṣṭutáṃ yahváṃ pratnā́bhir ū́tibhiḥ | ní barhíṣi priyé sadad ádha dvitā́ ||
Him we seek—much-praised, the impetuous—by the ancient succours: may he sit down upon the beloved sacred seat, and again establish himself within.
तम् । ई॒म॒हे॒ । पु॒रु॒ऽस्तु॒तम् । य॒ह्वम् । प्र॒त्नाभिः॑ । ऊ॒तिऽभिः॑ । नि । ब॒र्हिषि॑ । प्रि॒ये । स॒द॒त् । अध॑ । द्वि॒ता ॥तम् । ईमहे । पुरुस्तुतम् । यह्वम् । प्रत्नाभिः । ऊतिभिः । नि । बर्हिषि । प्रिये । सदत् । अध । द्विता ॥tam | īmahe | puru-stutam | yahvam | pratnābhiḥ | ūti-bhiḥ | ni | barhiṣi | priye | sadat | adha | dvitā