Sukta 8.13
कदा त इन्द्र गिर्वणः स्तोता भवाति शंतमः । कदा नो गव्ये अश्व्ये वसौ दधः ॥
क॒दा त॑ इन्द्र गिर्वणः स्तो॒ता भ॑वाति॒ शंत॑मः । क॒दा नो॒ गव्ये॒ अश्व्ये॒ वसौ॑ दधः ॥
kadā́ ta indra girvaṇaḥ stotā́ bhavāti śáṃtamaḥ | kadā́ no gavyé aśvyé vásau dadhaḥ ||
When, O Indra who rejoicest in the chant, shall my praise become most peace-giving? When wilt thou place for us the riches of light and of forceful movement?
क॒दा । ते॒ । इ॒न्द्र॒ । गि॒र्व॒णः॒ । स्तो॒ता । भ॒वा॒ति॒ । शम्ऽत॑मः । क॒दा । नः॒ । गव्ये॑ । अश्व्ये॑ । वसौ॑ । द॒धः॒ ॥कदा । ते । इन्द्र । गिर्वणः । स्तोता । भवाति । शम्तमः । कदा । नः । गव्ये । अश्व्ये । वसौ । दधः ॥kadā | te | indra | girvaṇaḥ | stotā | bhavāti | śam-tamaḥ | kadā | naḥ | gavye | aśvye | vasau | dadhaḥ