Sukta 8.13
यदि मे सख्यमावर इमस्य पाह्यन्धसः । येन विश्वा अति द्विषो अतारिम ॥
यदि॑ मे स॒ख्यमा॒वर॑ इ॒मस्य॑ पा॒ह्यन्ध॑सः । येन॒ विश्वा॒ अति॒ द्विषो॒ अता॑रिम ॥
yádi me sakhyám ā́vara imásya pā́hy ándhasaḥ | yéna víśvā áti dvíṣo átārim ||
If thou hast entered into comradeship with me, then guard this pressed delight; by it may I pass beyond all hatreds.
यदि॑ । मे॒ । स॒ख्यम् । आ॒ऽवरः॑ । इ॒मस्य॑ । पा॒हि॒ । अन्ध॑सः । येन॑ । विश्वाः॑ । अति॑ । द्विषः॑ । अता॑रिम ॥यदि । मे । सख्यम् । आवरः । इमस्य । पाहि । अन्धसः । येन । विश्वाः । अति । द्विषः । अतारिम ॥yadi | me | sakhyam | āvaraḥ | imasya | pāhi | andhasaḥ | yena | viśvāḥ | ati | dviṣaḥ | atārima