Sukta 8.13
स्तोता यत्ते अनुव्रत उक्थान्यृतुथा दधे । शुचिः पावक उच्यते सो अद्भुतः ॥
स्तो॒ता यत्ते॒ अनु॑व्रत उ॒क्थान्यृ॑तु॒था द॒धे । शुचि॑: पाव॒क उ॑च्यते॒ सो अद्भु॑तः ॥
stotā́ yát te ánu-vrata ukthā́ny ṛtúthā dadhé | śúciḥ pāvaká ucyate sá adbhútaḥ ||
When the chanter, faithful to thy law, sets the hymns in the right seasons, he is called pure and cleansing; he becomes a marvel of the work.
स्तो॒ता । यत् । ते॒ । अनु॑ऽव्रतः । उ॒क्थानि॑ । ऋ॒तु॒ऽथा । द॒धे । शुचिः॑ । पा॒व॒कः । उ॒च्य॒ते॒ । सः । अद्भु॑तः ॥स्तोता । यत् । ते । अनुव्रतः । उक्थानि । ऋतुथा । दधे । शुचिः । पावकः । उच्यते । सः । अद्भुतः ॥stotā | yat | te | anu-vrataḥ | ukthāni | ṛtu-thā | dadhe | śuciḥ | pāvakaḥ | ucyate | saḥ | adbhutaḥ