Sukta 8.13
त्रिकद्रुकेषु चेतनं देवासो यज्ञमत्नत । तमिद्वर्धन्तु नो गिरः सदावृधम् ॥
त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो॑ य॒ज्ञम॑त्नत । तमिद्व॑र्धन्तु नो॒ गिर॑: स॒दावृ॑धम् ॥
tríkadrukeṣu cétanaṃ devā́so yajñám atnata | tám íd vardhantu no gíraḥ sadā́vṛdham ||
In the three presses they laboured at the sacrifice to awaken the Conscious One; may our inspired words increase That—ever-growing—within us.
त्रिऽक॑द्रुकेषु । चेत॑नम् । दे॒वासः॑ । य॒ज्ञम् । अ॒त्न॒त॒ । तम् । इत् । व॒र्ध॒न्तु॒ । नः॒ । गिरः॑ । स॒दाऽवृ॑धम् ॥त्रिकद्रुकेषु । चेतनम् । देवासः । यज्ञम् । अत्नत । तम् । इत् । वर्धन्तु । नः । गिरः । सदावृधम् ॥tri-kadrukeṣu | cetanam | devāsaḥ | yajñam | atnata | tam | it | vardhantu | naḥ | giraḥ | sadāvṛdham