Sukta 8.13
तमिद्विप्रा अवस्यवः प्रवत्वतीभिरूतिभिः । इन्द्रं क्षोणीरवर्धयन्वया इव ॥
तमिद्विप्रा॑ अव॒स्यव॑: प्र॒वत्व॑तीभिरू॒तिभि॑: । इन्द्रं॑ क्षो॒णीर॑वर्धयन्व॒या इ॑व ॥
tám id víprā avasyávaḥ pravatvatī́bhir ū́tibhiḥ | índraṃ kṣoṇī́r avardhayan vayā́ iva ||
That Indra indeed—the seers seeking a higher dwelling—by his forward-driving helps increased the wide earth-powers within, as wings grow for the flight.
तम् । इत् । विप्राः॑ । अ॒व॒स्यवः॑ । प्र॒वत्व॑तीभिः । ऊ॒तिऽभिः॑ । इन्द्र॑म् । क्षो॒णीः । अ॒व॒र्ध॒य॒न् । व॒याःऽइ॑व ॥तम् । इत् । विप्राः । अवस्यवः । प्रवत्वतीभिः । ऊतिभिः । इन्द्रम् । क्षोणीः । अवर्धयन् । वयाःइव ॥tam | it | viprāḥ | avasyavaḥ | pravatvatībhiḥ | ūti-bhiḥ | indram | kṣoṇīḥ | avardhayan | vayāḥ-iva