Sukta 8.13
यच्छक्रासि परावति यदर्वावति वृत्रहन् । यद्वा समुद्रे अन्धसोऽवितेदसि ॥
यच्छ॒क्रासि॑ परा॒वति॒ यद॑र्वा॒वति॑ वृत्रहन् । यद्वा॑ समु॒द्रे अन्ध॑सोऽवि॒तेद॑सि ॥
yác chakrā́si parāváti yád arvāváti vṛtrahan | yád vā samudré ándhaso’vitéd asi ||
Whether you are far away or near at hand, O slayer of the Coverer; or whether you are in the ocean of delight—still you are indeed the helper.
यत् । श॒क्र॒ । असि॑ । प॒रा॒ऽवति॑ । यत् । अ॒र्वा॒ऽवति॑ । वृ॒त्र॒ऽह॒न् । यत् । वा॒ । स॒मु॒द्रे । अन्ध॑सः । अ॒वि॒ता । इत् । अ॒सि॒ ॥यत् । शक्र । असि । परावति । यत् । अर्वावति । वृत्रहन् । यत् । वा । समुद्रे । अन्धसः । अविता । इत् । असि ॥yat | śakra | asi | parāvati | yat | arvāvati | vṛtra-han | yat | vā | samudre | andhasaḥ | avitā | it | asi