Sukta 8.13
आ तू गहि प्र तु द्रव मत्स्वा सुतस्य गोमतः । तन्तुं तनुष्व पूर्व्यं यथा विदे ॥
आ तू ग॑हि॒ प्र तु द्र॑व॒ मत्स्वा॑ सु॒तस्य॒ गोम॑तः । तन्तुं॑ तनुष्व पू॒र्व्यं यथा॑ वि॒दे ॥
ā́ tū́ gahi prá tú drava mátsvā sutásya gómataḥ | tántuṃ tanuṣva pū́rvyaṃ yáthā vidé ||
Come here; run forth—take delight in the pressed soma rich in rays. Stretch out the ancient thread within us, so that we may truly know.
आ । तु । ग॒हि॒ । प्र । तु । द्र॒व॒ । मत्स्व॑ । सु॒तस्य॑ । गोऽम॑तः । तन्तु॑म् । त॒नु॒ष्व॒ । पू॒र्व्यम् । यथा॑ । वि॒दे ॥आ । तु । गहि । प्र । तु । द्रव । मत्स्व । सुतस्य । गोमतः । तन्तुम् । तनुष्व । पूर्व्यम् । यथा । विदे ॥ā | tu | gahi | pra | tu | drava | matsva | sutasya | go--mataḥ | tantum | tanuṣva | pūrvyam | yathā | vide