Sukta 8.13
तूतुजानो महेमतेऽश्वेभिः प्रुषितप्सुभिः । आ याहि यज्ञमाशुभिः शमिद्धि ते ॥
तू॒तु॒जा॒नो म॑हेम॒तेऽश्वे॑भिः प्रुषि॒तप्सु॑भिः । आ या॑हि य॒ज्ञमा॒शुभि॒: शमिद्धि ते॑ ॥
tūtujānó mahematé’śvébhíḥ pruṣitápsubhiḥ | ā́ yāhi yajñám āśúbhiḥ śám íd dhí te ||
O impetuous one, for the great measure, with horses that are heat-bright with dew-sparks—come swiftly to the yajña; surely it is for your peace and fulfilment.
तू॒तु॒जा॒नः । म॒हे॒ऽम॒ते । अश्वे॑भिः । प्रु॒षि॒तप्सु॑ऽभिः । आ । या॒हि॒ । य॒ज्ञम् । आ॒शुऽभिः॑ । शम् । इत् । हि । ते॒ ॥तूतुजानः । महेमते । अश्वेभिः । प्रुषितप्सुभिः । आ । याहि । यज्ञम् । आशुभिः । शम् । इत् । हि । ते ॥tūtujānaḥ | mahe--mate | aśvebhiḥ | pruṣitapsu-bhiḥ | ā | yāhi | yajñam | āśu-bhiḥ | śam | it | hi | te