Sukta 8.10
यदद्याश्विनावपाग्यत्प्राक्स्थो वाजिनीवसू । यद्द्रुह्यव्यनवि तुर्वशे यदौ हुवे वामथ मा गतम् ॥
यद॒द्याश्वि॑ना॒वपा॒ग्यत्प्राक्स्थो वा॑जिनीवसू । यद्द्रु॒ह्यव्यन॑वि तु॒र्वशे॒ यदौ॑ हु॒वे वा॒मथ॒ मा ग॑तम् ॥
yád adyā́śvināv apā́g yát prā́k stho vājinīvasū | yád druhyávy ánavi turváśe yádau huvé vām átha mā́ ā́ gatam ||
If today, O Ashvins, you are turned away, or if you are far to the east, O lords of plenitude of force; if you are with Druhyu, Anu, or Turvaśa—then when I call you, do not fail to come to me.
यत् । अ॒द्य । अ॒श्वि॒नौ॒ । अपा॑क् । यत् । प्राक् । स्थः । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । यत् । द्रु॒ह्यवि॑ । अन॑वि । तु॒र्वशे॑ । यदौ॑ । हु॒वे । वा॒म् । अथ॑ । मा॒ । आ । ग॒त॒म् ॥यत् । अद्य । अश्विनौ । अपाक् । यत् । प्राक् । स्थः । वाजिनीवसू इति वाजिनीवसू । यत् । द्रुह्यवि । अनवि । तुर्वशे । यदौ । हुवे । वाम् । अथ । मा । आ । गतम् ॥yat | adya | aśvinau | apāk | yat | prāk | sthaḥ | vājinīvasūitivājinī-vasū | yat | druhyavi | anavi | turvaśe | yadau | huve | vām | atha | mā | ā | gatam