Sukta 8.10
ययोरधि प्र यज्ञा असूरे सन्ति सूरयः । ता यज्ञस्याध्वरस्य प्रचेतसा स्वधाभिर्या पिबतः सोम्यं मधु ॥
ययो॒रधि॒ प्र य॒ज्ञा अ॑सू॒रे सन्ति॑ सू॒रय॑: । ता य॒ज्ञस्या॑ध्व॒रस्य॒ प्रचे॑तसा स्व॒धाभि॒र्या पिब॑तः सो॒म्यं मधु॑ ॥
yáyor ádhi prá yajñā́ asū́re sánti sūráyaḥ | tā́ yajñásyādhvarásya prá-cetasā svadhā́bhir yā́ píbataḥ somyáṃ mádhu ||
Upon whom the sacrifices advance, and the illumined seers are in their unfailing power—those two, wide-aware in the sacrifice and the path of offering, who by their own law drink the honey of Soma.
ययोः॑ । अधि॑ । प्र । य॒ज्ञाः । अ॒सू॒रे । सन्ति॑ । सू॒रयः॑ । ता । य॒ज्ञस्य॑ । अ॒ध्व॒रस्य॑ । प्रऽचे॑तसा । स्व॒धाभिः॑ । या । पिब॑तः । सो॒म्यम् । मधु॑ ॥ययोः । अधि । प्र । यज्ञाः । असूरे । सन्ति । सूरयः । ता । यज्ञस्य । अध्वरस्य । प्रचेतसा । स्वधाभिः । या । पिबतः । सोम्यम् । मधु ॥yayoḥ | adhi | pra | yajñāḥ | asūre | santi | sūrayaḥ | tā | yajñasya | adhvarasya | pra-cetasā | svadhābhiḥ | yā | pibataḥ | somyam | madhu