Sukta 8.10
यदन्तरिक्षे पतथः पुरुभुजा यद्वेमे रोदसी अनु । यद्वा स्वधाभिरधितिष्ठथो रथमत आ यातमश्विना ॥
यद॒न्तरि॑क्षे॒ पत॑थः पुरुभुजा॒ यद्वे॒मे रोद॑सी॒ अनु॑ । यद्वा॑ स्व॒धाभि॑रधि॒तिष्ठ॑थो॒ रथ॒मत॒ आ या॑तमश्विना ॥
yád antárikṣe pátathaḥ purubhujā́ yád vémé ródasī́ ánu | yád vā svadhā́bhir adhí-tiṣṭhathaḥ rátham áta ā́ yātam aśvinā ||
Whether you move through the mid-world, O wide-givers, or follow after these two worlds, or whether by your own inherent power you mount your chariot—thence come to us, O Aśvins.
यत् । अ॒न्तरि॑क्षे । पत॑थः । पु॒रु॒ऽभु॒जा॒ । यत् । वा॒ । इ॒मे इति॑ । रोद॑सी॒ इति॑ । अनु॑ । यत् । वा॒ । स्व॒धाभिः॑ । अ॒धि॒ऽतिष्ठ॑थः । रथ॑म् । अतः॑ । आ । या॒त॒म् । अ॒श्वि॒ना॒ ॥यत् । अन्तरिक्षे । पतथः । पुरुभुजा । यत् । वा । इमे इति । रोदसी इति । अनु । यत् । वा । स्वधाभिः । अधितिष्ठथः । रथम् । अतः । आ । यातम् । अश्विना ॥yat | antarikṣe | patathaḥ | puru-bhujā | yat | vā | ime iti | rodasī iti | anu | yat | vā | svadhābhiḥ | adhi-tiṣṭhathaḥ | ratham | ataḥ | ā | yātam | aśvinā