Sukta 8.10
त्या न्वश्विना हुवे सुदंससा गृभे कृता । ययोरस्ति प्र णः सख्यं देवेष्वध्याप्यम् ॥
त्या न्व१॒॑श्विना॑ हुवे सु॒दंस॑सा गृ॒भे कृ॒ता । ययो॒रस्ति॒ प्र ण॑: स॒ख्यं दे॒वेष्वध्याप्य॑म् ॥
tyā́ nv àśvinā huve sudáṃsasā gṛbhé kṛtā́ | yáyor ásti prá ṇaḥ sakhyáṃ devéṣv ádhy ā́pyam ||
Those two Ashvins I call, the well-working, established in our grasp; for with them there is for us a friendship that reaches into the gods, a kinship in the waters of being.
त्या । नु । अ॒श्विना॑ । हु॒वे॒ । सु॒ऽदंस॑सा । गृ॒भे । कृ॒ता । ययोः॑ । अस्ति॑ । प्र । नः॒ । स॒ख्यम् । दे॒वेषु । अधि॑ । आप्य॑म् ॥त्या । नु । अश्विना । हुवे । सुदंससा । गृभे । कृता । ययोः । अस्ति । प्र । नः । सख्यम् । देवेषु । अधि । आप्यम् ॥tyā | nu | aśvinā | huve | su-daṃsasā | gṛbhe | kṛtā | yayoḥ | asti | pra | naḥ | sakhyam | deveṣu | adhi | āpyam