Sukta 8.10
यद्वा यज्ञं मनवे सम्मिमिक्षथुरेवेत्काण्वस्य बोधतम् । बृहस्पतिं विश्वान्देवाँ अहं हुव इन्द्राविष्णू अश्विनावाशुहेषसा ॥
यद्वा॑ य॒ज्ञं मन॑वे सम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑ बोधतम् । बृह॒स्पतिं॒ विश्वा॑न्दे॒वाँ अ॒हं हु॑व॒ इन्द्रा॒विष्णू॑ अ॒श्विना॑वाशु॒हेष॑सा ॥
yád vā yajñáṃ mánave sam-mimikṣáthurevá ít kāṇvásya bodhatam | bṛ́haspátiṃ víśvān devā́n aháṃ huve indrā́viṣṇū aśvínāv āśu-heṣasā ||
Or if you have blended and set the sacrifice for Manu—then awaken to the call of the Kāṇva. I invoke Brihaspati, all the gods, Indra and Vishnu, and you too, O Ashvins of swift coursing power.
यत् । वा॒ । य॒ज्ञम् । मन॑वे । स॒म्ऽमि॒मि॒क्षथुः॑ । ए॒व । इत् । का॒ण्वस्य॑ । बो॒ध॒त॒म् । बृह॒स्पति॑म् । विश्वा॑न् । दे॒वान् । अ॒हम् । हु॒वे॒ । इन्द्रा॒विष्णू॒ इति॑ । अ॒श्विनौ॑ । आ॒शु॒ऽहेष॑सा ॥यत् । वा । यज्ञम् । मनवे । सम्मिमिक्षथुः । एव । इत् । काण्वस्य । बोधतम् । बृहस्पतिम् । विश्वान् । देवान् । अहम् । हुवे । इन्द्राविष्णू इति । अश्विनौ । आशुहेषसा ॥yat | vā | yajñam | manave | sam-mimikṣathuḥ | eva | it | kāṇvasya | bodhatam | bṛhaspatim | viśvān | devān | aham | huve | indrāviṣṇūiti | aśvinau | āśu-heṣasā