Sukta 8.10
यत्स्थो दीर्घप्रसद्मनि यद्वादो रोचने दिवः । यद्वा समुद्रे अध्याकृते गृहेऽत आ यातमश्विना ॥
यत्स्थो दी॒र्घप्र॑सद्मनि॒ यद्वा॒दो रो॑च॒ने दि॒वः । यद्वा॑ समु॒द्रे अध्याकृ॑ते गृ॒हेऽत॒ आ या॑तमश्विना ॥
yát stho dīrghá-prasadmani yád vā́do rocané diváḥ | yád vā samudré ádhy ākṛ́te gṛhé ’tá ā́ yātam aśvinā ||
Whether you stand in the far-extended seat, or there in the shining realm of heaven; or whether upon the ocean, in a fashioned home—thence come here, O Ashvins.
यत् । स्थः । दी॒र्घऽप्र॑सद्मनि । यत् । वा॒ । अ॒दः । रो॒च॒ने । दि॒वः । यत् । वा॒ । स॒मु॒द्रे । अधि॑ । आऽकृ॑ते । गृ॒हे । अतः॑ । आ । या॒त॒म् । अ॒श्वि॒ना॒ ॥यत् । स्थः । दीर्घप्रसद्मनि । यत् । वा । अदः । रोचने । दिवः । यत् । वा । समुद्रे । अधि । आकृते । गृहे । अतः । आ । यातम् । अश्विना ॥yat | sthaḥ | dīrgha-prasadmani | yat | vā | adaḥ | rocane | divaḥ | yat | vā | samudre | adhi | ākṛte | gṛhe | ataḥ | ā | yātam | aśvinā