Sukta 7.99
इयं मनीषा बृहती बृहन्तोरुक्रमा तवसा वर्धयन्ती । ररे वां स्तोमं विदथेषु विष्णो पिन्वतमिषो वृजनेष्विन्द्र ॥
इ॒यं म॑नी॒षा बृ॑ह॒ती बृ॒हन्तो॑रुक्र॒मा त॒वसा॑ व॒र्धय॑न्ती । र॒रे वां॒ स्तोमं॑ वि॒दथे॑षु विष्णो॒ पिन्व॑त॒मिषो॑ वृ॒जने॑ष्विन्द्र ॥
iyáṃ manīṣā́ bṛhatī́ bṛhántor urukramā́ távasā vardháyantī | raré vāṃ stómaṃ vidátheṣu víṣṇo pínvatam íṣo vṛjáneṣv índra ||
This wide and lofty thought, O Vast Ones, O far-striding Vishnu, grows by your strength. In the assemblies, Vishnu, it has fashioned a hymn for you both; O Indra, in our fields of action swell for us the impulsions of the divine nourishment and power.
इ॒यम् । म॒नी॒षा । बृ॒ह॒ती । बृ॒हन्ता॑ । उ॒रु॒ऽक्र॒मा । त॒वसा॑ । व॒र्धय॑न्ती । र॒रे । वा॒म् । स्तोम॑म् । वि॒दथे॑षु । वि॒ष्णो॒ इति॑ । पिन्व॑तम् । इषः॑ । वृ॒जने॑षु । इ॒न्द्र॒ ॥इयम् । मनीषा । बृहती । बृहन्ता । उरुक्रमा । तवसा । वर्धयन्ती । ररे । वाम् । स्तोमम् । विदथेषु । विष्णो इति । पिन्वतम् । इषः । वृजनेषु । इन्द्र ॥iyam | manīṣā | bṛhatī | bṛhantā | uru-kramā | tavasā | vardhayantī | rare | vām | stomam | vidatheṣu | viṣṇo iti | pinvatam | iṣaḥ | vṛjaneṣu | indra