Sukta 7.99
उरुं यज्ञाय चक्रथुरु लोकं जनयन्ता सूर्यमुषासमग्निम् । दासस्य चिद्वृषशिप्रस्य माया जघ्नथुर्नरा पृतनाज्येषु ॥
उ॒रुं य॒ज्ञाय॑ चक्रथुरु लो॒कं ज॒नय॑न्ता॒ सूर्य॑मु॒षास॑म॒ग्निम् । दास॑स्य चिद्वृषशि॒प्रस्य॑ मा॒या ज॒घ्नथु॑र्नरा पृत॒नाज्ये॑षु ॥
urúṃ yajñā́ya cakrathur u lokáṃ janáyantā sū́ryam uṣā́sam agním | dā́sasya cid vṛṣaśiprásya māyā́ jaghnáthur narā pṛtanā́jyeṣu ||
Wide for the sacrifice you two made the world, bringing to birth the Sun, the Dawn, and the Fire. Even the deceits of the Dāsa, of the bull-lipped one, you two heroes struck down in the battles that press upon us.
उ॒रुम् । य॒ज्ञाय॑ । च॒क्र॒थुः॒ । ऊँ॒ इति॑ । लो॒कम् । ज॒नय॑न्ता । सूर्य॑म् । उ॒षस॑म् । अ॒ग्निम् । दास॑स्य । चि॒त् । वृ॒ष॒ऽशि॒प्रस्य॑ । मा॒याः । ज॒घ्नथुः॑ । न॒रा॒ । पृ॒त॒नाज्ये॑षु ॥उरुम् । यज्ञाय । चक्रथुः । ऊँ इति । लोकम् । जनयन्ता । सूर्यम् । उषसम् । अग्निम् । दासस्य । चित् । वृषशिप्रस्य । मायाः । जघ्नथुः । नरा । पृतनाज्येषु ॥urum | yajñāya | cakrathuḥ | oṃ iti | lokam | janayantā | sūryam | uṣasam | agnim | dāsasya | cit | vṛṣa-śiprasya | māyāḥ | jaghnathuḥ | narā | pṛtanājyeṣu