Sukta 7.99
इरावती धेनुमती हि भूतं सूयवसिनी मनुषे दशस्या । व्यस्तभ्ना रोदसी विष्णवेते दाधर्थ पृथिवीमभितो मयूखैः ॥
इरा॑वती धेनु॒मती॒ हि भू॒तं सू॑यव॒सिनी॒ मनु॑षे दश॒स्या । व्य॑स्तभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो॑ म॒यूखै॑: ॥
īrā́vatī dhenúmatī hí bhūtáṃ sūyavasínī mánuṣe daśasyā́ | vy àstabhnā rodasī víṣṇav ete dā́dhartha pṛthivīm abhíto mayū́khaiḥ ||
Full of the flowing plenty, rich in milking-force, bearing good pasture, it has become for man a thing to serve and cherish. These two worlds thou hast propped apart for Vishnu; and thou hast held the earth on every side with rays of light.
इरा॑वती॒ इतीरा॑ऽवती । धे॒नु॒मती॒ इति॑ धे॒नु॒ऽमती॑ । हि । भू॒तम् । सु॒य॒व॒सिनी॒ इति॑ सु॒ऽय॒व॒सिनी॑ । मनु॑षे । द॒श॒स्या । वि । अ॒स्त॒भ्नाः॒ । रोद॑सी॒ इति॑ । वि॒ष्णो॒ इति॑ । ए॒ते इति॑ । दा॒धर्थ॑ । पृ॒थि॒वीम् । अ॒भितः॑ । म॒यूखैः॑ ॥इरावती इतीरावती । धेनुमती इति धेनुमती । हि । भूतम् । सुयवसिनी इति सुयवसिनी । मनुषे । दशस्या । वि । अस्तभ्नाः । रोदसी इति । विष्णो इति । एते इति । दाधर्थ । पृथिवीम् । अभितः । मयूखैः ॥irāvatī itīrāvatī | dhenumatī itidhenu-matī | hi | bhūtam | suyavasinī itisu-yavasinī | manuṣe | daśasyā | vi | astabhnāḥ | rodasī iti | viṣṇo iti | ete iti | dādhartha | pṛthivīm | abhitaḥ | mayūkhaiḥ