Sukta 7.99
न ते विष्णो जायमानो न जातो देव महिम्नः परमन्तमाप । उदस्तभ्ना नाकमृष्वं बृहन्तं दाधर्थ प्राचीं ककुभं पृथिव्याः ॥
न ते॑ विष्णो॒ जाय॑मानो॒ न जा॒तो देव॑ महि॒म्नः पर॒मन्त॑माप । उद॑स्तभ्ना॒ नाक॑मृ॒ष्वं बृ॒हन्तं॑ दा॒धर्थ॒ प्राचीं॑ क॒कुभं॑ पृथि॒व्याः ॥
ná te víṣṇo jā́yamāno ná jātó deva mahimnáḥ paramám ántam āpa | úd astabhnāḥ nā́kam ṛṣvám bṛhántam dā́dhartha prācī́ṃ kakúbhaṃ pṛthivyā́ḥ ||
Neither being born nor having been born, O Vishnu, hast thou reached the utmost limit of thy greatness. Thou didst uphold the lofty, vast heaven above; thou didst set firm the eastern height and summit of the earth.
न । ते॒ । वि॒ष्णो॒ इति॑ । जाय॑मानः । न । जा॒तः । देव॑ । महि॒म्नः । पर॑म् । अन्त॑म् । आ॒प॒ । उत् । अ॒स्त॒भ्नाः॒ । नाक॑म् । ऋ॒ष्वम् । बृ॒हन्त॑म् । दा॒धर्थ॑ । प्राची॑म् । क॒कुभ॑म् । पृ॒थि॒व्याः ॥न । ते । विष्णो इति । जायमानः । न । जातः । देव । महिम्नः । परम् । अन्तम् । आप । उत् । अस्तभ्नाः । नाकम् । ऋष्वम् । बृहन्तम् । दाधर्थ । प्राचीम् । ककुभम् । पृथिव्याः ॥na | te | viṣṇo iti | jāyamānaḥ | na | jātaḥ | deva | mahimnaḥ | param | antam | āpa | ut | astabhnāḥ | nākam | ṛṣvam | bṛhantam | dādhartha | prācīm | kakubham | pṛthivyāḥ