Sukta 7.99
परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति । उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वं परमस्य वित्से ॥
प॒रो मात्र॑या त॒न्वा॑ वृधान॒ न ते॑ महि॒त्वमन्व॑श्नुवन्ति । उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वं प॑र॒मस्य॑ वित्से ॥
paró mā́trayā tanvā́ vṛdhāna ná te mahitvám ánv aśnuvanti | ubhé te vidmá rajasī pṛthivyā́ víṣṇo deva tváṃ paramásya vitse ||
Growing beyond measure by thy own body, none can reach thy greatness. We know thy two luminous realms and the earth: O Vishnu, O god, thou art the knower and master of the supreme.
प॒रः । मात्र॑या । त॒न्वा॑ । वृ॒धा॒न॒ । न । ते॒ । म॒हि॒ऽत्वम् । अनु॑ । अ॒श्नु॒व॒न्ति॒ । उ॒भे इति॑ । ते॒ । वि॒द्म॒ । रज॑सी॒ इति॑ । पृ॒थि॒व्याः । विष्णो॒ इति॑ । दे॒व॒ । त्वम् । प॒र॒मस्य॑ । वि॒त्से॒ ॥परः । मात्रया । तन्वा । वृधान । न । ते । महित्वम् । अनु । अश्नुवन्ति । उभे इति । ते । विद्म । रजसी इति । पृथिव्याः । विष्णो इति । देव । त्वम् । परमस्य । वित्से ॥paraḥ | mātrayā | tanvā | vṛdhāna | na | te | mahi-tvam | anu | aśnuvanti | ubhe iti | te | vidma | rajasī iti | pṛthivyāḥ | viṣṇo iti | deva | tvam | paramasya | vitse