Sukta 7.98
प्रेन्द्रस्य वोचं प्रथमा कृतानि प्र नूतना मघवा या चकार । यदेददेवीरसहिष्ट माया अथाभवत्केवलः सोमो अस्य ॥
प्रेन्द्र॑स्य वोचं प्रथ॒मा कृ॒तानि॒ प्र नूत॑ना म॒घवा॒ या च॒कार॑ । य॒देददे॑वी॒रस॑हिष्ट मा॒या अथा॑भव॒त्केव॑ल॒: सोमो॑ अस्य ॥
préndrasya vocaṃ prathamā́ kṛtā́ni prá nū́tanā maghávā yā́ cakā́ra | yadéd adevī́r asahiṣṭa māyā́ athā́bhavat kévalaḥ sómo asya ||
I proclaim the first deeds of Indra and the new ones that the bountiful has done. When the undivine powers could not withstand his workings, then the Soma became wholly his—his alone to possess and to wield.
प्र । इन्द्र॑स्य । वो॒च॒म् । प्र॒थ॒मा । कृ॒तानि॑ । प्र । नूत॑ना । म॒घऽवा॑ । या । च॒कार॑ । य॒दा । इत् । अदे॑वीः । अस॑हिष्ट । मा॒याः । अथ॑ । अ॒भ॒व॒त् । केव॑लः । सोमः॑ । अ॒स्य॒ ॥प्र । इन्द्रस्य । वोचम् । प्रथमा । कृतानि । प्र । नूतना । मघवा । या । चकार । यदा । इत् । अदेवीः । असहिष्ट । मायाः । अथ । अभवत् । केवलः । सोमः । अस्य ॥pra | indrasya | vocam | prathamā | kṛtāni | pra | nūtanā | magha-vā | yā | cakāra | yadā | it | adevīḥ | asahiṣṭa | māyāḥ | atha | abhavat | kevalaḥ | somaḥ | asya