Sukta 7.98
तवेदं विश्वमभितः पशव्यं यत्पश्यसि चक्षसा सूर्यस्य । गवामसि गोपतिरेक इन्द्र भक्षीमहि ते प्रयतस्य वस्वः ॥
तवे॒दं विश्व॑म॒भित॑: पश॒व्यं१॒॑ यत्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य । गवा॑मसि॒ गोप॑ति॒रेक॑ इन्द्र भक्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्व॑: ॥
tavédáṃ víśvam abhítaḥ paśavyàṃ yát páśyasi cákṣasā sū́ryasya | gávām asi gopátir éka indra bhakṣīmáhi te práyatasya vásvaḥ ||
All this around is thy wealth of living powers, whatever thou beholdest with the Sun’s eye. Thou art the one lord and protector of the Rays (cows), O Indra; may we partake of the riches that are rightly offered and directed by thee.
तव॑ । इ॒दम् । विश्व॑म् । अ॒भितः॑ । प॒श॒व्य॑म् । यत् । पश्य॑सि । चक्ष॑सा । सूर्य॑स्य । गवा॑म् । अ॒सि॒ । गोऽप॑तिः । एकः॑ । इ॒न्द्र॒ । भ॒क्षी॒महि॑ । ते॒ । प्रऽय॑तस्य । वस्वः॑ ॥तव । इदम् । विश्वम् । अभितः । पशव्यम् । यत् । पश्यसि । चक्षसा । सूर्यस्य । गवाम् । असि । गोपतिः । एकः । इन्द्र । भक्षीमहि । ते । प्रयतस्य । वस्वः ॥tava | idam | viśvam | abhitaḥ | paśavyam | yat | paśyasi | cakṣasā | sūryasya | gavām | asi | go--patiḥ | ekaḥ | indra | bhakṣīmahi | te | pra-yatasya | vasvaḥ