Sukta 7.98
यद्योधया महतो मन्यमानान्त्साक्षाम तान्बाहुभिः शाशदानान् । यद्वा नृभिर्वृत इन्द्राभियुध्यास्तं त्वयाजिं सौश्रवसं जयेम ॥
यद्यो॒धया॑ मह॒तो मन्य॑माना॒न्त्साक्षा॑म॒ तान्बा॒हुभि॒: शाश॑दानान् । यद्वा॒ नृभि॒र्वृत॑ इन्द्राभि॒युध्या॒स्तं त्वया॒जिं सौ॑श्रव॒सं ज॑येम ॥
yád yodháyā maható manyamānā́n sākṣā́ma tā́n bāhúbhiḥ śāśadānā́n | yád vā nṛ́bhir vṛ́ta indra abhí-yudhyās táṃ tvayā́jim sauśravásaṃ jayema ||
When thou dost drive to battle the great ones who deem themselves mighty, and we face them openly—those who press forward with their arms; or when, chosen with men, O Indra, thou fightest on, then with thee may we win that battle which brings the good fame of a true hearing.
यत् । यो॒धयाः॑ । म॒ह॒तः । मन्य॑मानान् । साक्षा॑म । तान् । बा॒हुऽभिः॑ । शाश॑दानान् । यत् । वा॒ । नृऽभिः॑ । वृतः॑ । इ॒न्द्र॒ । अ॒भि॒ऽयुध्याः॑ । तम् । त्वया॑ । आ॒जिम् । सौ॒श्र॒व॒सम् । ज॒ये॒म॒ ॥यत् । योधयाः । महतः । मन्यमानान् । साक्षाम । तान् । बाहुभिः । शाशदानान् । यत् । वा । नृभिः । वृतः । इन्द्र । अभियुध्याः । तम् । त्वया । आजिम् । सौश्रवसम् । जयेम ॥yat | yodhayāḥ | mahataḥ | manyamānān | sākṣāma | tān | bāhu-bhiḥ | śāśadānān | yat | vā | nṛ-bhiḥ | vṛtaḥ | indra | abhi-yudhyāḥ | tam | tvayā | ājim | sauśravasam | jayema