Sukta 7.98
जज्ञानः सोमं सहसे पपाथ प्र ते माता महिमानमुवाच । एन्द्र पप्राथोर्वन्तरिक्षं युधा देवेभ्यो वरिवश्चकर्थ ॥
ज॒ज्ञा॒नः सोमं॒ सह॑से पपाथ॒ प्र ते॑ मा॒ता म॑हि॒मान॑मुवाच । एन्द्र॑ पप्राथो॒र्व१॒॑न्तरि॑क्षं यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ॥
jajñānáḥ sómaṃ sáhase papātha prá te mātā́ mahimā́nam uvāca | ā́ indra paprātha urv àntárikṣaṃ yudhā́ devébhyo vári-vaś cakartha ||
Born into thy power thou hast drunk the Soma for strength; thy Mother has proclaimed thy greatness. O Indra, thou hast widened the broad mid-world; by battle thou hast made free room and happy scope for the gods.
ज॒ज्ञा॒नः । सोम॑म् । सह॑से । प॒पा॒थ॒ । प्र । ते॒ । मा॒ता । म॒हि॒मान॑म् । उ॒वा॒च॒ । आ । इ॒न्द्र॒ । प॒प्रा॒थ॒ । उ॒रु । अ॒न्तरि॑क्षम् । यु॒धा । दे॒वेभ्यः॑ । वरि॑वः । च॒क॒र्थ॒ ॥जज्ञानः । सोमम् । सहसे । पपाथ । प्र । ते । माता । महिमानम् । उवाच । आ । इन्द्र । पप्राथ । उरु । अन्तरिक्षम् । युधा । देवेभ्यः । वरिवः । चकर्थ ॥jajñānaḥ | somam | sahase | papātha | pra | te | mātā | mahimānam | uvāca | ā | indra | paprātha | uru | antarikṣam | yudhā | devebhyaḥ | varivaḥ | cakartha