Sukta 7.98
यद्दधिषे प्रदिवि चार्वन्नं दिवेदिवे पीतिमिदस्य वक्षि । उत हृदोत मनसा जुषाण उशन्निन्द्र प्रस्थितान्पाहि सोमान् ॥
यद्द॑धि॒षे प्र॒दिवि॒ चार्वन्नं॑ दि॒वेदि॑वे पी॒तिमिद॑स्य वक्षि । उ॒त हृ॒दोत मन॑सा जुषा॒ण उ॒शन्नि॑न्द्र॒ प्रस्थि॑तान्पाहि॒ सोमा॑न् ॥
yád dadhíṣe pra-diví cā́rv ánnaṃ dive-dive pītím íd asya vakṣi | utá hṛdó tá manasā juṣāṇá uśán indra prasthitā́n pāhi sómān ||
When thou settest the beautiful nourishment in the forward heaven, and day by day bearest for it the very act of drinking, then—taking delight with the heart and with the mind, consenting—O Indra, gladly guard the Soma-draughts that have been set forth.
यत् । द॒धि॒षे । प्र॒ऽदिवि॑ । चारु॑ । अन्न॑म् । दि॒वेऽदि॑वे । पी॒तिम् । इत् । अ॒स्य॒ । व॒क्षि॒ । उ॒त । हृ॒दा । उ॒त । मन॑सा । जु॒षा॒णः । उ॒शन् । इ॒न्द्र॒ । प्रऽस्थि॑तान् । पा॒हि॒ । सोमा॑न् ॥यत् । दधिषे । प्रदिवि । चारु । अन्नम् । दिवेदिवे । पीतिम् । इत् । अस्य । वक्षि । उत । हृदा । उत । मनसा । जुषाणः । उशन् । इन्द्र । प्रस्थितान् । पाहि । सोमान् ॥yat | dadhiṣe | pra-divi | cāru | annam | dive--dive | pītim | it | asya | vakṣi | uta | hṛdā | uta | manasā | juṣāṇaḥ | uśan | indra | pra-sthitān | pāhi | somān