Sukta 7.97
इयं वां ब्रह्मणस्पते सुवृक्तिर्ब्रह्मेन्द्राय वज्रिणे अकारि । अविष्टं धियो जिगृतं पुरंधीर्जजस्तमर्यो वनुषामरातीः ॥
इ॒यं वां॑ ब्रह्मणस्पते सुवृ॒क्तिर्ब्रह्मेन्द्रा॑य व॒ज्रिणे॑ अकारि । अ॒वि॒ष्टं धियो॑ जिगृ॒तं पुरं॑धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा॑तीः ॥
iyáṃ vāṃ brahmaṇaspate suvṛktír brahméndrāya vájriṇe akāri | aviṣṭáṃ dhíyo jigṛtáṃ purandhī́r jajástam aryó vanúṣām arā́tīḥ ||
This well-fashioned utterance, O Lord of the Word, has been made for you—(as) brahman for Indra the wielder of the thunderbolt. Let the thoughts be protected and lifted up; may the plenitudes of understanding drive away the hostilities of the narrow-hearted.
इ॒यम् । वा॒म् । ब्र॒ह्म॒णः॒ । प॒ते॒ । सु॒ऽवृ॒क्तिः । ब्रह्म॑ । इन्द्रा॑य । व॒ज्रिणे॑ । अ॒का॒रि॒ । अ॒वि॒ष्टम् । धियः॑ । जि॒गृ॒तम् । पुर॑म्ऽधीः । ज॒ज॒स्तम् । अ॒र्यः । व॒नुषा॑म् । अरा॑तीः ॥इयम् । वाम् । ब्रह्मणः । पते । सुवृक्तिः । ब्रह्म । इन्द्राय । वज्रिणे । अकारि । अविष्टम् । धियः । जिगृतम् । पुरम्धीः । जजस्तम् । अर्यः । वनुषाम् । अरातीः ॥iyam | vām | brahmaṇaḥ | pate | su-vṛktiḥ | brahma | indrāya | vajriṇe | akāri | aviṣṭam | dhiyaḥ | jigṛtam | puram-dhīḥ | jajastam | aryaḥ | vanuṣām | arātīḥ