Sukta 7.97
बृहस्पते युवमिन्द्रश्च वस्वो दिव्यस्येशाथे उत पार्थिवस्य । धत्तं रयिं स्तुवते कीरये चिद्यूयं पात स्वस्तिभिः सदा नः ॥
बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो॑ दि॒व्यस्ये॑शाथे उ॒त पार्थि॑वस्य । ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये॑ चिद्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
bṛ́haspate yuvám índraś ca vásvo divyásyeśāthe utá pārthívasya | dhattáṃ rayíṃ stuváte kīráye cid yūyám pāta svastíbhiḥ sádā naḥ ||
O Bṛhaspati, you and Indra are masters of the wealth of heaven and of earth. Place in the singer, in the praiser, the plenitude of being; and you—guard us always with your harmonies of well-being.
बृह॑स्पते । यु॒वम् । इन्द्रः॑ । च॒ । वस्वः॑ । दि॒व्यस्य॑ । ई॒शा॒थे॒ इति॑ । उ॒त । पार्थि॑वस्य । ध॒त्तम् । र॒यिम् । स्तु॒व॒ते । की॒रये॑ । चि॒त् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥बृहस्पते । युवम् । इन्द्रः । च । वस्वः । दिव्यस्य । ईशाथे इति । उत । पार्थिवस्य । धत्तम् । रयिम् । स्तुवते । कीरये । चित् । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥bṛhaspate | yuvam | indraḥ | ca | vasvaḥ | divyasya | īśātheiti | uta | pārthivasya | dhattam | rayim | stuvate | kīraye | cit | yūyam | pāta | svasti-bhiḥ | sadā | naḥ