Sukta 7.97
तं शग्मासो अरुषासो अश्वा बृहस्पतिं सहवाहो वहन्ति । सहश्चिद्यस्य नीलवत्सधस्थं नभो न रूपमरुषं वसानाः ॥
तं श॒ग्मासो॑ अरु॒षासो॒ अश्वा॒ बृह॒स्पतिं॑ सह॒वाहो॑ वहन्ति । सह॑श्चि॒द्यस्य॒ नील॑वत्स॒धस्थं॒ नभो॒ न रू॒पम॑रु॒षं वसा॑नाः ॥
táṃ śagmā́so aruṣā́so áśvā bṛ́haspátiṃ sahavā́ho vahanti | sáhaś cid yásya nī́lavat sadhásthaṃ nábho ná rū́pam aruṣáṃ vásānāḥ ||
The strong ruddy steeds, bearing together, carry Bṛhaspati. Even his seat is blue-dark like the sky, while he wears a ruddy form—powerful, moving with a united drive.
तम् । श॒ग्मासः॑ । अ॒रु॒षासः॑ । अश्वाः॑ । बृह॒स्पति॑म् । स॒ह॒ऽवाहः॑ । व॒ह॒न्ति॒ । सहः॑ । चि॒त् । यस्य॑ । नील॑ऽवत् । स॒धऽस्थ॑म् । नभः॑ । न । रू॒पम् । अ॒रु॒षम् । वसा॑नाः ॥तम् । शग्मासः । अरुषासः । अश्वाः । बृहस्पतिम् । सहवाहः । वहन्ति । सहः । चित् । यस्य । नीलवत् । सधस्थम् । नभः । न । रूपम् । अरुषम् । वसानाः ॥tam | śagmāsaḥ | aruṣāsaḥ | aśvāḥ | bṛhaspatim | saha-vāhaḥ | vahanti | sahaḥ | cit | yasya | nīla-vat | sadha-stham | nabhaḥ | na | rūpam | aruṣam | vasānāḥ