Sukta 7.97
स आ नो योनिं सदतु प्रेष्ठो बृहस्पतिर्विश्ववारो यो अस्ति । कामो रायः सुवीर्यस्य तं दात्पर्षन्नो अति सश्चतो अरिष्टान् ॥
स आ नो॒ योनिं॑ सदतु॒ प्रेष्ठो॒ बृह॒स्पति॑र्वि॒श्ववा॑रो॒ यो अस्ति॑ । कामो॑ रा॒यः सु॒वीर्य॑स्य॒ तं दा॒त्पर्ष॑न्नो॒ अति॑ स॒श्चतो॒ अरि॑ष्टान् ॥
sá ā́ no yóniṃ sadatu préṣṭho bṛ́haspátir viśvávāro yó ásti | kā́mo rāyáḥ suvī́ryasya táṃ dā́t párṣan no áti saścáto áriṣṭān ||
May Bṛhaspati, the dearest and bearer of all desirable boons, take his seat in our womb of growth; he who is the yearning for the spiritual plenitude and heroic force—may he give that and carry us beyond those who press upon us, keeping us unhurt.
सः । आ । नः॒ । योनि॑म् । स॒द॒तु॒ । प्रेष्ठः॑ । बृह॒स्पतिः॑ । वि॒श्वऽवा॑रः । यः । अस्ति॑ । कामः॑ । रा॒यः । सु॒ऽवीर्य॑स्य । तम् । दा॒त् । पर्ष॑त् । नः॒ । अति॑ । स॒श्चतः॑ । अरि॑ष्टान् ॥सः । आ । नः । योनिम् । सदतु । प्रेष्ठः । बृहस्पतिः । विश्ववारः । यः । अस्ति । कामः । रायः । सुवीर्यस्य । तम् । दात् । पर्षत् । नः । अति । सश्चतः । अरिष्टान् ॥saḥ | ā | naḥ | yonim | sadatu | preṣṭhaḥ | bṛhaspatiḥ | viśva-vāraḥ | yaḥ | asti | kāmaḥ | rāyaḥ | su-vīryasya | tam | dāt | parṣat | naḥ | ati | saścataḥ | ar iṣṭān