Sukta 7.97
तमु ज्येष्ठं नमसा हविर्भिः सुशेवं ब्रह्मणस्पतिं गृणीषे । इन्द्रं श्लोको महि दैव्यः सिषक्तु यो ब्रह्मणो देवकृतस्य राजा ॥
तमु॒ ज्येष्ठं॒ नम॑सा ह॒विर्भि॑: सु॒शेवं॒ ब्रह्म॑ण॒स्पतिं॑ गृणीषे । इन्द्रं॒ श्लोको॒ महि॒ दैव्य॑: सिषक्तु॒ यो ब्रह्म॑णो दे॒वकृ॑तस्य॒ राजा॑ ॥
tám u jyéṣṭhaṃ námasā havírbhiḥ suśévaṃ bráhmaṇaspátiṃ gṛṇīṣe | índraṃ ślóko máhi daívyáḥ sisaktu yó bráhmaṇo devákṛtasya rā́jā ||
Him, the eldest, with obeisance and with offerings I hymn—Brāhmaṇaspati, the beneficent. May the great divine chant attach itself to Indra, who is king of the god-fashioned Word.
तम् । ऊँ॒ इति॑ । ज्येष्ठ॑म् । नम॑सा । ह॒विःऽभिः॑ । सु॒ऽशेव॑म् । ब्रह्म॑णः । पति॑म् । गृ॒णी॒षे॒ । इन्द्र॑म् । श्लोकः॑ । महि॑ । दैव्यः॑ । सि॒स॒क्तु॒ । यः । ब्रह्म॑णः । दे॒वऽकृ॑तस्य । राजा॑ ॥तम् । ऊँ इति । ज्येष्ठम् । नमसा । हविःभिः । सुशेवम् । ब्रह्मणः । पतिम् । गृणीषे । इन्द्रम् । श्लोकः । महि । दैव्यः । सिसक्तु । यः । ब्रह्मणः । देवकृतस्य । राजा ॥tam | oṃ iti | jyeṣṭham | namasā | haviḥ-bhiḥ | su-śevam | brahmaṇaḥ | patim | gṛṇīṣe | indram | ślokaḥ | mahi | daivyaḥ | sisaktu | yaḥ | brahmaṇaḥ | deva-kṛtasya | rājā