Sukta 7.97
आ दैव्या वृणीमहेऽवांसि बृहस्पतिर्नो मह आ सखायः । यथा भवेम मीळ्हुषे अनागा यो नो दाता परावतः पितेव ॥
आ दैव्या॑ वृणीम॒हेऽवां॑सि॒ बृह॒स्पति॑र्नो मह॒ आ स॑खायः । यथा॒ भवे॑म मी॒ळ्हुषे॒ अना॑गा॒ यो नो॑ दा॒ता प॑रा॒वत॑: पि॒तेव॑ ॥
ā daivyā́ vṛṇīmahe’vā́ṃsi bṛ́haspátir no mahá ā́ sakhāyaḥ | yáthā bhávema mīḷhúṣe ánāgā yó no dātā́ parāvátaḥ pitā́iva ||
We choose and call to us the divine helps; may Bṛhaspati, our mighty Friend, come near—so that we may become without fault before the generous Giver, he who from the far beyond bestows on us like a father.
आ । दैव्या॑ । वृ॒णी॒म॒हे॒ । अवां॑सि । बृह॒स्पतिः॑ । नः॒ । म॒हे॒ । आ । स॒खा॒यः॒ । यथा॑ । भवे॑म । मी॒ळ्हुषे॑ । अना॑गाः । यः । नः॒ । दा॒ता । प॒रा॒ऽवतः॑ । पि॒ताऽइ॑व ॥आ । दैव्या । वृणीमहे । अवांसि । बृहस्पतिः । नः । महे । आ । सखायः । यथा । भवेम । मीळ्हुषे । अनागाः । यः । नः । दाता । परावतः । पिताइव ॥ā | daivyā | vṛṇīmahe | avāṃsi | bṛhaspatiḥ | naḥ | mahe | ā | sakhāyaḥ | yathā | bhavema | mīḷhuṣe | anāgāḥ | yaḥ | naḥ | dātā | parāvataḥ | pitāiva