Sukta 7.95
इमा जुह्वाना युष्मदा नमोभिः प्रति स्तोमं सरस्वति जुषस्व । तव शर्मन्प्रियतमे दधाना उप स्थेयाम शरणं न वृक्षम् ॥
इ॒मा जुह्वा॑ना यु॒ष्मदा नमो॑भि॒: प्रति॒ स्तोमं॑ सरस्वति जुषस्व । तव॒ शर्म॑न्प्रि॒यत॑मे॒ दधा॑ना॒ उप॑ स्थेयाम शर॒णं न वृ॒क्षम् ॥
imā́ juhvānā yuṣmád ā namo-bhíḥ práti stómaṃ sarasvati juṣasva | táva śárman priya-táme dádhānā úpa stheyāma śaráṇaṃ ná vṛkṣám ||
We, offering with uplifted hands from you and with our reverence, receive our hymn, O Sarasvatī; take delight in it. Holding fast to your most beloved sheltering peace, may we draw near and stand with you, as one stands by a tree for refuge.
इ॒मा । जुह्वा॑नाः । यु॒ष्मत् । आ । नमः॑ऽभिः । प्रति॑ । स्तोम॑म् । स॒र॒स्व॒ति॒ । जु॒ष॒स्व॒ । तव॑ । शर्म॑न् । प्रि॒यऽत॑मे । दधा॑नाः । उप॑ । स्थे॒या॒म॒ । श॒र॒णम् । न । वृ॒क्षम् ॥इमा । जुह्वानाः । युष्मत् । आ । नमःभिः । प्रति । स्तोमम् । सरस्वति । जुषस्व । तव । शर्मन् । प्रियतमे । दधानाः । उप । स्थेयाम । शरणम् । न । वृक्षम् ॥imā | juhvānāḥ | yuṣmat | ā | namaḥ-bhiḥ | prati | stomam | sarasvati | juṣasva | tava | śarman | priya-tame | dadhānāḥ | upa | stheyāma | śaraṇam | na | vṛkṣam