Sukta 7.95
अयमु ते सरस्वति वसिष्ठो द्वारावृतस्य सुभगे व्यावः । वर्ध शुभ्रे स्तुवते रासि वाजान्यूयं पात स्वस्तिभिः सदा नः ॥
अ॒यमु॑ ते सरस्वति॒ वसि॑ष्ठो॒ द्वारा॑वृ॒तस्य॑ सुभगे॒ व्या॑वः । वर्ध॑ शुभ्रे स्तुव॒ते रा॑सि॒ वाजा॑न्यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
ayám u te sarasvati vásiṣṭho dvā́rāv ṛtásya subhage vy-ā́vaḥ | várdha śúbhre stuvaté rāsi vā́jān yūyáṃ pāta svastí-bhiḥ sádā naḥ ||
This Vasiṣṭha here, O Sarasvatī, O fortunate one, has opened wide the doors of the Truth. Increase, O pure one; give to the one who praises the plenitudes of force. And may you protect us always with harmonies of well-being.
अ॒यम् । ऊँ॒ इति॑ । ते॒ । स॒र॒स्व॒ति॒ । वसि॑ष्ठः । द्वारौ॑ । ऋ॒तस्य॑ । सु॒ऽभ॒गे॒ । वि । आ॒व॒रित्या॑वः । वर्ध॑ । शु॒भ्रे॒ । स्तु॒व॒ते । रा॒सि॒ । वाजा॑न् । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥अयम् । ऊँ इति । ते । सरस्वति । वसिष्ठः । द्वारौ । ऋतस्य । सुभगे । वि । आवरित्यावः । वर्ध । शुभ्रे । स्तुवते । रासि । वाजान् । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥ayam | oṃ iti | te | sarasvati | vasiṣṭhaḥ | dvārau | ṛtasya | su-bhage | vi | āvar ity āvaḥ | vardha | śubhre | stuvate | rāsi | vājān | yūyam | pāta | svasti-bhiḥ | sadā | naḥ