Sukta 7.95
स वावृधे नर्यो योषणासु वृषा शिशुर्वृषभो यज्ञियासु । स वाजिनं मघवद्भ्यो दधाति वि सातये तन्वं मामृजीत ॥
स वा॑वृधे॒ नर्यो॒ योष॑णासु॒ वृषा॒ शिशु॑र्वृष॒भो य॒ज्ञिया॑सु । स वा॒जिनं॑ म॒घव॑द्भ्यो दधाति॒ वि सा॒तये॑ त॒न्वं॑ मामृजीत ॥
sá vāvṛdhe náryo yóṣaṇāsu vṛ́ṣā śíśur vṛṣabhó yajñíyāsu | sá vā́jinaṃ maghávadbhyo dadhāti ví sātáye tanvàṃ mamṛjīta ||
He grows in strength among the energies of becoming: a bull, yet a child; a strong bull among the sacred workings. He gives the plenitude of force to the generous, and for victory he refines and shapes the body of our being.
सः । व॒वृ॒धे॒ । नर्यः॑ । योष॑णासु । वृषा॑ । शिशुः॑ । वृ॒ष॒भः । य॒ज्ञिया॑सु । सः । वा॒जिन॑म् । म॒घव॑त्ऽभ्यः । द॒धा॒ति॒ । वि । सा॒तये॑ । त॒न्व॑म् । म॒मृ॒जी॒त॒ ॥सः । ववृधे । नर्यः । योषणासु । वृषा । शिशुः । वृषभः । यज्ञियासु । सः । वाजिनम् । मघवत्भ्यः । दधाति । वि । सातये । तन्वम् । ममृजीत ॥saḥ | vavṛdhe | naryaḥ | yoṣaṇāsu | vṛṣā | śiśuḥ | vṛṣabhaḥ | yajñiyāsu | saḥ | vājinam | maghavat-bhyaḥ | dadhāti | vi | sātaye | tanvam | mamṛjīta