Sukta 7.95
एकाचेतत्सरस्वती नदीनां शुचिर्यती गिरिभ्य आ समुद्रात् । रायश्चेतन्ती भुवनस्य भूरेर्घृतं पयो दुदुहे नाहुषाय ॥
एका॑चेत॒त्सर॑स्वती न॒दीनां॒ शुचि॑र्य॒ती गि॒रिभ्य॒ आ स॑मु॒द्रात् । रा॒यश्चेत॑न्ती॒ भुव॑नस्य॒ भूरे॑र्घृ॒तं पयो॑ दुदुहे॒ नाहु॑षाय ॥
ékā acetat sárasvatī nadī́nāṃ śúcir yatī́ giríbhyā́ samudrā́t | rā́yaś cetántī bhúvanasya bhū́rer ghṛtáṃ páyo duduhe nā́huṣāya ||
Alone she awakens as the conscious one among the rivers, pure in her movement from the mountains to the sea; knowing the riches of the wide world, she milks out clarified delight and nourishing fullness for the human seeker.
एका॑ । अ॒चे॒त॒त् । सर॑स्वती । न॒दीना॑म् । शुचिः॑ । य॒ती । गि॒रिऽभ्यः॑ । आ । स॒मु॒द्रात् । रा॒यः । चेत॑न्ती । भुव॑नस्य । भूरेः॑ । घृ॒तम् । पयः॑ । दु॒दु॒हे॒ । नाहु॑षाय ॥एका । अचेतत् । सरस्वती । नदीनाम् । शुचिः । यती । गिरिभ्यः । आ । समुद्रात् । रायः । चेतन्ती । भुवनस्य । भूरेः । घृतम् । पयः । दुदुहे । नाहुषाय ॥ekā | acetat | sarasvatī | nadīnām | śuciḥ | yatī | giri-bhyaḥ | ā | samudrāt | rāyaḥ | cetantī | bhuvanasya | bhūreḥ | ghṛtam | payaḥ | duduhe | nāhuṣāya