Sukta 7.94
शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः । ईशाना पिप्यतं धियः ॥
शृ॒णु॒तं ज॑रि॒तुर्हव॒मिन्द्रा॑ग्नी॒ वन॑तं॒ गिर॑: । ई॒शा॒ना पि॑प्यतं॒ धिय॑: ॥
śṛṇutáṃ jaritúr hávam índrāgnī vánataṃ gíraḥ | īśānā́ pipyataṃ dhíyaḥ ||
Hear the call of the singer, O Indra-and-Agni; accept and incline to the words. As masters of power, make the thoughts swell—fill the intelligence with increase.
शृ॒णु॒तम् । ज॒रि॒तुः । हव॑म् । इन्द्रा॑ग्नी॒ इति॑ । वन॑तम् । गिरः॑ । ई॒शा॒ना । पि॒प्य॒त॒म् । धियः॑ ॥शृणुतम् । जरितुः । हवम् । इन्द्राग्नी इति । वनतम् । गिरः । ईशाना । पिप्यतम् । धियः ॥śṛṇutam | jarituḥ | havam | indrāgnī iti | vanatam | giraḥ | īśānā | pipyatam | dhiyaḥ