Sukta 7.94
इयं वामस्य मन्मन इन्द्राग्नी पूर्व्यस्तुतिः । अभ्राद्वृष्टिरिवाजनि ॥
इ॒यं वा॑म॒स्य मन्म॑न॒ इन्द्रा॑ग्नी पू॒र्व्यस्तु॑तिः । अ॒भ्राद्वृ॒ष्टिरि॑वाजनि ॥
iyáṃ vāmasyá mánmana índrāgnī pū́rvyā stutíḥ | abhrā́d vṛṣṭír ivājani ||
This praise is born from the mind’s deep intention, O Indra-and-Agni, an ancient kind of hymn; it has arisen like rain from a cloud—an outpouring from the gathered fullness into the seeking field.
इ॒यम् । वा॒म॒स्य । मन्म॑नः । इन्द्रा॑ग्नी॒ इति॑ । पू॒र्व्यऽस्तु॑तिः । अ॒भ्रात् । वृ॒ष्टिःऽइ॑व । अ॒ज॒नि॒ ॥इयम् । वामस्य । मन्मनः । इन्द्राग्नी इति । पूर्व्यस्तुतिः । अभ्रात् । वृष्टिःइव । अजनि ॥iyam | vāmasya | manmanaḥ | indrāgnī iti | pūrvya-stutiḥ | abhrāt | vṛṣṭiḥ-iva | ajani