Sukta 7.94
उक्थेभिर्वृत्रहन्तमा या मन्दाना चिदा गिरा । आङ्गूषैराविवासतः ॥
उ॒क्थेभि॑र्वृत्र॒हन्त॑मा॒ या म॑न्दा॒ना चि॒दा गि॒रा । आ॒ङ्गू॒षैरा॒विवा॑सतः ॥
ukthébhiḥ vṛtrahántamā yā mandānā cidā girā́ | āṅgūṣáir āvivāsataḥ ||
With hymns they strengthen the most Vṛtra-slaying powers; even intoxicated with the delight, with voice and fervor they continually seek to make them present.
उ॒क्थेभिः॑ । वृ॒त्र॒ऽहन्त॑मा । या । म॒न्दा॒ना । चि॒त् । आ । गि॒रा । आ॒ङ्गू॒षैः । आ॒ऽविवा॑सतः ॥उक्थेभिः । वृत्रहन्तमा । या । मन्दाना । चित् । आ । गिरा । आङ्गूषैः । आविवासतः ॥ukthebhiḥ | vṛtra-hantamā | yā | mandānā | cit | ā | girā | āṅgūṣaiḥ | āvivāsataḥ