Sukta 7.92
ये वायव इन्द्रमादनास आदेवासो नितोशनासो अर्यः । घ्नन्तो वृत्राणि सूरिभिः ष्याम सासह्वांसो युधा नृभिरमित्रान् ॥
ये वा॒यव॑ इन्द्र॒माद॑नास॒ आदे॑वासो नि॒तोश॑नासो अ॒र्यः । घ्नन्तो॑ वृ॒त्राणि॑ सू॒रिभि॑: ष्याम सास॒ह्वांसो॑ यु॒धा नृभि॑र॒मित्रा॑न् ॥
yé vāyava indrámādanāsa ā́devāso nitóśanāso aryáḥ | ghnánto vṛtrā́ṇi sūríbhíḥ syāma sāsahvā́ṃso yúdhā nṛ́bhir amítrān ||
O Vāyus (powers of the Life-Wind), delighting in Indra, godward and eager for the increase, noble in the march—may we, with our illumined leaders, smite the Vṛtras. May we be conquerors in the battle, overcoming the hostile forces with our strong men.
ये । वा॒यवे॑ । इ॒न्द्र॒ऽमाद॑नासः । आऽदे॑वासः । नि॒ऽतोश॑नासः । अ॒र्यः । घ्नन्तः॑ । वृ॒त्राणि॑ । सू॒रिऽभिः॑ । स्या॒म॒ । स॒स॒ह्वांसः॑ । यु॒धा । नृऽभिः॑ । अ॒मित्रा॑न् ॥ये । वायवे । इन्द्रमादनासः । आदेवासः । नितोशनासः । अर्यः । घ्नन्तः । वृत्राणि । सूरिभिः । स्याम । ससह्वांसः । युधा । नृभिः । अमित्रान् ॥ye | vāyave | indra-mādanāsaḥ | ādevāsaḥ | ni-tośanāsaḥ | aryaḥ | ghnantaḥ | vṛtrāṇi | sūri-bhiḥ | syāma | sasahvāṃsaḥ | yudhā | nṛ-bhiḥ | amitrān