Sukta 7.92
प्र याभिर्यासि दाश्वांसमच्छा नियुद्भिर्वायविष्टये दुरोणे । नि नो रयिं सुभोजसं युवस्व नि वीरं गव्यमश्व्यं च राधः ॥
प्र याभि॒र्यासि॑ दा॒श्वांस॒मच्छा॑ नि॒युद्भि॑र्वायवि॒ष्टये॑ दुरो॒णे । नि नो॑ र॒यिं सु॒भोज॑सं युवस्व॒ नि वी॒रं गव्य॒मश्व्यं॑ च॒ राध॑: ॥
prá yā́bhir yā́si dāśvā́ṃsam ácchā niyúdbhir vāyaviṣṭáye duróṇe | ní no rayíṃ subhójasam yuvasva ní vīráṃ gavyám aśvyáṃ ca rā́dhaḥ ||
With those yoked powers by which thou comest to the giver, O Vāyu, to the house of the worshipper, bring down for us a wealth of rich enjoyment. Bring down also the hero-force, and the luminous herds and the swift energies—thy bounty.
प्र । याभिः॑ । यासि॑ । दा॒श्वांस॑म् । अच्छ॑ । नि॒युत्ऽभिः॑ । वा॒यो॒ इति॑ । इ॒ष्टये॑ । दु॒रो॒णे । नि । नः॒ । र॒यिम् । सु॒ऽभोज॑सम् । यु॒व॒स्व॒ । नि । वी॒रम् । गव्य॑म् । अश्व्य॑म् । च॒ । राधः॑ ॥प्र । याभिः । यासि । दाश्वांसम् । अच्छ । नियुत्भिः । वायो इति । इष्टये । दुरोणे । नि । नः । रयिम् । सुभोजसम् । युवस्व । नि । वीरम् । गव्यम् । अश्व्यम् । च । राधः ॥pra | yābhiḥ | yāsi | dāśvāṃsam | accha | niyut-bhiḥ | vāyo iti | iṣṭaye | duroṇe | ni | naḥ | rayim | su-bhojasam | yuvasva | ni | vīram | gavyam | aśvyam | ca | rādhaḥ