Sukta 7.92
आ नो नियुद्भिः शतिनीभिरध्वरं सहस्रिणीभिरुप याहि यज्ञम् । वायो अस्मिन्त्सवने मादयस्व यूयं पात स्वस्तिभिः सदा नः ॥
आ नो॑ नि॒युद्भि॑: श॒तिनी॑भिरध्व॒रं स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् । वायो॑ अ॒स्मिन्त्सव॑ने मादयस्व यू॒यं पा॑त स्व॒स्तिभि॒: सदा॑ नः ॥
ā́ no niyúdbhiḥ śatínībhir adhvaráṃ sahasríṇībhir úpa yāhi yajñám | vāyo asmín sávané mādayasva yūyáṃ pāta svastíbhiḥ sádā naḥ ||
Come to us with thy yoked powers by hundreds and by thousands; draw near to the sacrifice, to the offering-work. O Vāyu, in this pressing be filled with rapture; and do you guard us always with the harmonies of well-being.
आ । नः॒ । नि॒युत्ऽभिः॑ । श॒तिनी॑भिः । अ॒ध्व॒रम् । स॒ह॒स्रिणी॑भिः । उप॑ । या॒हि॒ । य॒ज्ञम् । वायो॒ इति॑ । अ॒स्मिन् । सव॑ने । मा॒द॒य॒स्व॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥आ । नः । नियुत्भिः । शतिनीभिः । अध्वरम् । सहस्रिणीभिः । उप । याहि । यज्ञम् । वायो इति । अस्मिन् । सवने । मादयस्व । यूयम् । पात । स्वस्तिभिः । सदा । नः ॥ā | naḥ | niyut-bhiḥ | śatinībhiḥ | adhvaram | sahasriṇībhiḥ | upa | yāhi | yajñam | vāyo iti | asmin | savane | mādayasva | yūyam | pāta | svasti-bhiḥ | sadā | naḥ