Sukta 7.92
प्र सोता जीरो अध्वरेष्वस्थात्सोममिन्द्राय वायवे पिबध्यै । प्र यद्वां मध्वो अग्रियं भरन्त्यध्वर्यवो देवयन्तः शचीभिः ॥
प्र सोता॑ जी॒रो अ॑ध्व॒रेष्व॑स्था॒त्सोम॒मिन्द्रा॑य वा॒यवे॒ पिब॑ध्यै । प्र यद्वां॒ मध्वो॑ अग्रि॒यं भर॑न्त्यध्व॒र्यवो॑ देव॒यन्त॒: शची॑भिः ॥
prá sotā́ jīró adhvaréṣv asthāt sómam índrāya vāyáve píbadhyai | prá yád vāṃ mádhvo agriyáṃ bháranty adhvaryávo devayántaḥ śácībhiḥ ||
Forward has the swift-pressing priest taken his stand in the inner sacrifice, that Indra and Vāyu may drink the soma. For the adhvaryus, aspiring to the divine, bring forward for you two the foremost honeyed essence with their effective powers of skill.
प्र । सोता॑ । जी॒रः । अ॒ध्व॒रेषु॑ । अ॒स्था॒त् । सोम॑म् । इन्द्रा॑य । वा॒यवे॑ । पिब॑ध्यै । प्र । यत् । वा॒म् । मध्वः॑ । अ॒ग्रि॒यम् । भर॑न्ति । अ॒ध्व॒र्यवः॑ । दे॒व॒ऽयन्तः॑ । शची॑भिः ॥प्र । सोता । जीरः । अध्वरेषु । अस्थात् । सोमम् । इन्द्राय । वायवे । पिबध्यै । प्र । यत् । वाम् । मध्वः । अग्रियम् । भरन्ति । अध्वर्यवः । देवयन्तः । शचीभिः ॥pra | sotā | jīraḥ | adhvareṣu | asthāt | somam | indrāya | vāyave | pibadhyai | pra | yat | vām | madhvaḥ | agriyam | bharanti | adhvaryavaḥ | deva-yantaḥ | śacībhiḥ